मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ३

संहिता

शुचि॑ः पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।
नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥

पदपाठः

शुचिः॑ । पा॒व॒कः । अद्भु॑तः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ ।
नरा॒शंसः॑ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

सायणभाष्यम्

देवेषुमध्येशुचिः शुद्धोदीप्तोवापावकः अन्नस्यापूतस्यशोधयिता अद्भुतः अभूतइव अद्यक्षणेभवि- ता आश्चर्यभूतइत्यर्थः देवोद्योतनशीलः यज्ञियोयज्ञसंपादनार्हः ईदृशोनराशंसः नरैः कर्मनेतृभिः ऋ- त्विग्भिः शंसनीयोऽग्निः दिवोद्युलोकादागत्य मध्वामधुरेणरसेन यज्ञमस्मदीयं त्रिरामिमिक्षतित्रिवा- रंसमन्तात् सिंचति स्वादयतीत्यर्थः यद्वा मधुरेणफलेन त्रिरामिमिक्षति योजयतीत्यर्थः नराशंसोय- ज्ञइति कात्थक्यपक्षे यज्ञाभिमानीदेवोद्योतमानः द्युलोकादागत्यानुष्ठीयमानः यज्ञं त्रिरामिमिक्षति अयंनराशंसोदेवः त्रिराउपसर्गवशाद्योग्यक्रियाध्याहारः त्रिवारमागच्छति त्रिराहरतिवाफलं अवशि- ष्टंपूर्ववन्नेयम् ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०