मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ९

संहिता

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।
इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दन्तु य॒ज्ञिया॑ः ॥

पदपाठः

शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती ।
इळा॑ । सर॑स्वती । म॒ही । ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥

सायणभाष्यम्

शुचिः शुद्धा मरुत्सुविरुद्धलक्षणयाअमरणेषुदेवेषु द्योतनशीलेषुस्तोतृषुमरुत्सु ऋत्विक्षुवा अर्पि- ता नियता होत्राहोमनिष्पादिका भारती भरतस्यादित्यस्य संबन्धिनी द्युस्थानावाक् तथाइलापा- र्थिवीप्रैषादिरूपामही महती सरस्वती सरइत्युदकनाम तद्वती स्तनितादिरूपामाध्यमिकाचवाक् एतास्तिस्रः त्रिस्थानवागभिमानिदेवताः यज्ञियायज्ञार्हाःसत्यः बर्हिःस्तीर्णंसीदन्तु उपविशन्तु तिस्र- इत्यत्रतिसृभ्योजसइतिजसउदात्तत्वम् ॥ ९ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११