मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् १२

संहिता

पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।
स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिन्द्रा॑य कर्तन ॥

पदपाठः

पू॒ष॒ण्ऽवते॑ । म॒रुत्व॑ते । वि॒श्वऽदे॑वाय । वा॒यवे॑ ।
स्वाहा॑ । गा॒य॒त्रऽवे॑पसे । ह॒व्यम् । इन्द्रा॑य । क॒र्त॒न॒ ॥

सायणभाष्यम्

पूषण्वते पूष्णातद्वते अनोनुडितिनुट् ह्रस्वनुड्भ्यांमतुबितिमतुपउदात्तत्वं मरुत्वते मरुद्भिस्तद्वते विश्वदेवाय सर्वदेवसंघाय वायवे गमनशीलाय वायुदेवायच तथा गायत्रवेपसे वेपइतिरूपनाम गायत्रशब्दइतरसामोपलक्षणः गायत्रं वेपःरूपंयस्य तादृशायेन्द्राय हव्यंहविःप्रदातुं स्वाहाकर्तन स्वाहाकारंकुरुत ऋत्विजः करोतेर्लोटि तप्तनप्तनथनाश्चेतितनबादेशः ॥ १२ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११