मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् १३

संहिता

स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।
इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते अध्व॒रे ॥

पदपाठः

स्वाहा॑ऽकृतानि । आ । ग॒हि॒ । उप॑ । ह॒व्यानि॑ । वी॒तये॑ ।
इन्द्र॑ । आ । ग॒हि॒ । श्रु॒धि । हव॑म् । त्वाम् । ह॒व॒न्ते॒ । अ॒ध्व॒रे ॥

सायणभाष्यम्

हेइन्द्र स्वाहाक्रुतानि स्वाहेत्येवंपूर्वाकृतिःकरणमुच्चारणं यक्ष्यमाणदेवतानांतःस्वाहाकृतयः तद्व- न्तिहव्यानि हवींषि अत्रप्रयाजेषुवषट्कारप्रदानात्स्वाहाकृतं हविरित्यर्थः तद्धविः उपउपेत्य वीतये- भक्षणाय आगहि आगच्छ गमेश्छान्दसःशपोलुक् अनुदात्तोपदेशेत्यादिनानुनासिकलोपः तथा हेइन्द्र आगहि स्तोत्राण्यभिलक्ष्यागच्छ् आगत्यहवंअस्मदीयमाह्वानं श्रुधिश्रृणु यतस्त्वां अध्वरे अहिंसात्म- केयागेहवन्ते आह्वयन्तिऋत्विजः अतः श्रुधि ह्वयतेर्बहुलंछन्दसीतिसंप्रसारणम् ॥ १३ ॥

प्रतव्यसीमित्यष्टर्चंचतुर्थंसूक्तंदैर्घतमसं तथाचानुक्रान्तम् प्रतव्यसीमष्टावाग्नेयंतुतन्त्रिष्टुबन्तमिति तुतदित्युक्तत्वात् इदमादिसूक्ताष्टकस्याग्निर्देवता अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यःप्रा- तरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः अग्निष्टोमेआग्निमारुतेशस्त्रे इदंसूक्तंजातवेदस्य निनिद्धानीयं अथयथेतमितिखण्डेसूत्रितम्—प्रतव्यसींनव्यसीमापोहिष्ठेतितिस्रइति । दशरात्रस्यप्रथमेप्यहनि जा- तवेदस्यनिविद्धानम् आश्वमेधिकेमध्यमेहनिचनिविद्धानं तथाचाचार्योऽतिदेशऎकाहान्युपसंशस्य ते- षुनिविदोदध्यादेवमेवाग्निमारुतइति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११