मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् १

संहिता

प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे ।
अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥

पदपाठः

प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ ।
अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥

सायणभाष्यम्

अहंअग्नये प्रतव्यसीं तवीयसीं अतिशयेनवर्धयित्रीं तवतिर्वृद्भ्यर्थःसौत्रोधातुः अस्मात्तृजन्ताच्छन्द- सीतीयसू तुरिष्ठेमेयःस्वितितृलोपःछान्दसईकारलोपः नव्यसींनवतरांअपूर्वांधीतिं यागलक्षणांउक्तगु- णकंकर्मप्रभरे प्रकर्षेणकरोमि तथोक्तलक्षणांवाचोमतिं स्तुतिरूपंकर्मभरे कीदृशायाग्नये सहसोबल- स्यसूनवे पुत्राय किंच योऽग्निरपांनपात् तासांनप्ता अद्भ्यओषधयः ओषधीभ्योग्निरित्यग्नेर्नप्तृत्वं अथवा अपांनपातयितावैद्युताग्निरूपेणप्रवर्षकत्वांदितिभावः तथा प्रियोयजमानस्यप्रीणयिताप्रियतमोवात- स्यहोताहोमनिष्पादकः सोऽग्निःऋत्वियः प्राप्तकालः प्राप्तप्रदानसमयःसन् पृथिव्यां वेदिलक्षणायां व- सुभिः निवासयोग्यैर्गवादिधनैः सहसहितोन्यसीदत् नितरांसीदति ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२