मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् २

संहिता

स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने ।
अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥

पदपाठः

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने ।
अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥

सायणभाष्यम्

सपूर्वोक्तोऽग्निः जायमानः अरणीभ्यामुत्पद्यमानः काष्ठेषुवाप्रादुर्भूतःसन् तदानीमेव परमेउत्कृष्टे- व्योमनि विविधरक्षणवति वेदिदेशेमातरिश्वनेअंतरिक्षसंचारिणेवायवेप्रथममाविरभवत् प्रत्यक्षोभूत् त्वमग्नेप्रथमोमातरिश्वनआविर्भवेत्यादिश्रुत्यंतरप्रसिद्धेः । वायुसंयोगात्प्रज्वलितइत्यर्थः अथवा मात- रिफलस्यनिर्मातरियज्ञेश्वसितिचेष्टतइतिमातरिश्वा यजमानः तदर्थं किंच समिधानस्यइंधनैःसम्यग्व- र्धमानस्यास्याग्नेः मज्मनाबलनामैतत् बलवता क्रत्वाक्रतुनाकर्मणाज्वालनादिव्यापारेण शोचिः द्या- वापृथिवी द्यांचपृथिवींच प्रारोचयत् प्रकर्षेणादीपयत् मध्येशोचिःशब्दश्छान्दसः मज्मनाक्रत्वासमि- धानस्येतिवायोज्यं प्रबलेनसमिन्धनादिव्यापारेणसमिद्भ्यमानस्येत्यर्थः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२