मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् ३

संहिता

अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ ।
भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जरा॑ः ॥

पदपाठः

अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ ।
भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥

सायणभाष्यम्

अस्यस्तूयमानस्याग्नेः त्वेषाः दीप्तयः अजराः जरारहिताः अजीर्णाः अविरताइत्यर्थःनञोजरमरे- त्यादिनोत्तरपदाद्युदात्तत्वं तथा सुप्रतीकस्यशोभनमुखस्याग्नेर्भानवोरश्मयः दीप्तेरुक्तत्वादत्रविस्फु- लिङ्गाअवगन्तव्याः तेचसुसंदृशः सुष्ठुसम्यक् द्रष्टारः सर्वतोव्याप्ताइत्यर्थः सुद्युतः सुष्ठुसर्वतोद्योतमा- नाः तथाअस्याग्नेः भात्वक्षसः त्वक्षइतिबलनाम त्वक्षः शार्धइतिबलनामसुपाठात् भासमानबलाः अक्तुरितिरात्रिनामैतत् अक्तुः ऊर्म्येतितन्नामसूक्तत्वात् द्वितीयार्थेप्रथमा अक्तुंजगदंजकंनैशतमः अति- अतिक्रम्य सिंधवः स्यन्दमानाः सर्वत्रव्याप्नुवन्तः अससन्तः स्वव्यापारेष्वस्वपन्तः अविरताः अतए- वाजराः रश्मयः नरेजन्ते नकंपन्ते दाहपाकादिषु नचलन्तिनचाल्यन्ते वान्यैः यद्वा नशब्दोदृष्टान्तव- चनः भात्वक्षसः भाएवत्वक्षोबलंयस्यतादृशस्यादित्यस्यसिन्धवोनरश्मयइवतेयथास्यन्दनशीलाः व्याप्तिमन्तः अक्तुरिति अंजकंतमः अतिक्रम्य यथाअससन्तोरेजन्तेतद्वद्भात्वक्षसोस्याग्नेरुक्तलक्षणादी- प्तयोपिसर्वत्ररेजंते कंपंते व्याप्नुवन्तीत्यर्थः ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२