मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् ४

संहिता

यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ ।
अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥

पदपाठः

यम् । आ॒ऽई॒रि॒रे । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ ।
अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥

सायणभाष्यम्

विश्ववेदसं सर्वधनं वेदइतिधननाम वेदः वरिवइतितन्नामसुपाठात् तादृशंयमग्निं भृगवः भृगुगो- त्रोत्पन्नाः पापस्यभर्जकाः पृथिव्यावेद्याः एकदेशेकृत्स्नशब्दः यद्वा एतावतीवैपृथिवीत्यादिश्रुतेः वेद्याः पृथिवीत्वं तस्यानाभानाभौउत्तरवेद्यांभुवनस्यभूतजातस्य मन्मनाबलेन निमित्तेन आआभिमुख्येन ईरिरेईरितवन्तः स्थापितवन्तः तमग्निंस्वेस्वकीयेदमेगृहेउत्तरवेद्यांगीर्भिः स्तुतिभिः आहिनुहिप्राप्नुहि हिगतौवृद्धौच उतश्चप्रत्ययाच्छन्दसिवावचनमितिहेर्लुगभावः योऽग्निः एकः मुख्यःसन् एकएववा वस्वोवसुनः गवादिधनस्यराजति ईश्वरोभवति प्रदातुमितिशेषः राजतीत्यैश्वर्यकर्मा क्षियतिराजती- तितन्नामसुपाठात् तत्रदृष्टान्तः—वरुणोन वारकआदित्यइव सयथा सर्वस्यईष्टेतद्वत् ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२