मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् ६

संहिता

कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भि॒ः काम॑मा॒वर॑त् ।
चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धिय॒ः शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥

पदपाठः

कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् ।
चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥

सायणभाष्यम्

अयमग्निर्नोऽस्माकं उचथस्य उक्थस्य स्तोत्रस्य कुवित् बहुवारंवीः कामयिताअसत् भवतु अस्ते- र्लेट्यडागमः यद्वा उचथस्य एतन्नामकस्यमहर्षेः गोत्रप्रभवस्यनइतिसंबन्धः तथा वसुर्वासयितासर्वे- षांवसुस्थानीयोवा वसुभिर्वासयितृभिः धनैःकामंअत्यर्थंअभिमतंवाकुवित् अतिप्रभूतं आवरत् आवृ- णोतु अभिमतप्रदानेनकामंनिवर्तयत्वित्यर्थः वृणोतेर्लेट्यडागमः छान्दसोविकरणस्यलुक् अयमग्निः चोदः अस्माकंकर्मसुप्रेरकःसन् धियःकर्माणिसातयेलाभाय कुवित् बहुतुतुज्यात् त्वरयतु प्रेरयत्वित्य- र्थः तुजिःप्रेरणार्थः छान्दसःशपःश्लुः शुचिप्रतीकं शोभनावयवं शोभनज्वालंतमग्निं अयाधिया अन- यास्तुतिरूपयाप्रज्ञयागृणे उच्चारयामि स्तौमीत्यर्थः ॥ ६ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२