मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् ७

संहिता

घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते ।
इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धिय॑म् ॥

पदपाठः

घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ ।
इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊं॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥

सायणभाष्यम्

घृतप्रतीकंघृतोपक्रमं प्रयाजादिष्वाज्यैर्हूयमानत्वात् यद्वा प्रतीकमङ्गंदीप्तज्वालमित्यर्थः किंभूतं वोयुष्मत्संबन्धिनःऋतस्ययज्ञस्यधूर्षदंधुरिनिर्वहणेसीदन्तं यज्ञनिर्वाहकमग्निंमित्रंनमित्रमिव समिधा- नः इध्मैर्दीप्यमानः यजमानःऋंजते प्रसाधयति ऋंजतिःप्रसाधनकर्मा किंच इन्धानः सम्यक् दीप्य- मानः अक्रःज्वालासमिदादिभिराक्रान्तः अन्यैरनुक्रान्तोवा क्रमेश्छान्दसोडः विदथेषु यज्ञेषुवेदयत्सु स्तोत्रेषु निमित्तभूतेषुदीद्यत् स्वयंदीप्यमानोऽस्मदीयांधियंप्रज्ञांयागादिविषयां शुभ्रवर्णां निर्मलां- ज्योतिष्टोमादिकर्मवाउदुयंसते उद्योतयत्येव यमेर्लेट्यडागमः सिप् उशब्दोवधारणे धीरितिकर्मनाम धीःशमीतितन्नामसुपाठात् ॥ ७ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२