मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् १

संहिता

एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑न॒ः शुचि॑पेशसं॒ धिय॑म् ।
अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥

पदपाठः

एति॑ । प्र । होता॑ । व्र॒तम् । अ॒स्य॒ । मा॒यया॑ । ऊ॒र्ध्वाम् । दधा॑नः । शुचि॑ऽपेशसम् । धिय॑म् ।
अ॒भि । स्रुचः॑ । क्र॒म॒ते॒ । द॒क्षि॒णा॒ऽआ॒वृतः॑ । याः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । ह॒ । निंस॑ते ॥

सायणभाष्यम्

अयं होता होमनिष्पाअदकोऽध्वर्युरस्याग्नेर्व्रतं हविःप्रदानादिरूपं कर्मकर्तुंमायया कर्तंव्यविशेषप्र- ज्ञयायुक्तःसन्प्रैति प्रकर्षेणगच्छतिहोतुं मायेतिप्रज्ञानाम मायावयुनमितितन्नामसुपाठात् कीदृशोऽयं ऊर्ध्वां उपर्यारूढां शुचिपेशसं शोभनरूपोपेतां पेशइतिरूपनाम धियं प्रज्ञांदधानः धारयमाणः आच- तुर्थात्कर्मणोभिसमीक्ष्येतेदंकरिष्यतीत्युक्तत्वात् आगत्यच दक्षिणावृतः प्रादक्षिण्येनवर्तमानाः स्रुचः जुह्वादीः क्रमतेगृह्णाति कीदृश्यःस्रुचःयाःप्रथमंपात्रासादनकालेअस्याग्नेर्धामस्थानं निंसते निंसचुंब- नेइतिधातुः चुंबन्तिभजन्तइत्यर्थः प्रथममनुष्ठेयक्रमं बुद्भ्याप्रैति पश्चात्सुचः क्रमतइत्यर्थः हशब्दः प्र- सिद्धौ यद्वा होतादेवानामाह्वातायमग्निः अस्ययजमानस्यव्रतंकर्मज्योतिष्टोमादिप्रज्ञाविशेषेणयुक्तः सन् एति यज्ञदेशंप्रत्यागच्छति कीदृशोऽयंऊर्ध्वां ऊर्ध्ववर्तिशुचिपेशसं शोभनरूपोपेतांधियंज्वाला- चलनादिरूपंकर्मदधानोधारयमाणः आगत्यच दक्षिणावृतः उक्तलक्षणाःस्रुचः घृतपूर्णाः जुहूपभृदा- दिकाः अभिक्रमतेआक्रमते घृतंस्वीकर्तुंज्वालाः प्रसर्षन्तीत्यर्थः याः स्रुचः प्रथमं पूर्वंहविरासादनकाले अस्याग्नेर्धामस्थानं वेदिलक्षणंतिंसते चुंबन्तिप्राप्ताः हशब्दःप्रसिद्धौ णिसिचुंबने अदादित्वाच्छपोलुक् इदित्त्वान्नुम् ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३