मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् ३

संहिता

युयू॑षत॒ः सव॑यसा॒ तदिद्वपु॑ः समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः ।
आदीं॒ भगो॒ न हव्य॒ः सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम॑यंस्त॒ सार॑थिः ॥

पदपाठः

युयू॑षतः । सऽव॑यसा । तत् । इत् । वपुः॑ । स॒मा॒नम् । अर्थ॑म् । वि॒ऽतरि॑त्रता । मि॒थः ।
आत् । ई॒म् । भगः॑ । न । हव्यः॑ । सम् । अ॒स्मत् । आ । वोळ्हुः॑ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार॑थिः ॥

सायणभाष्यम्

सवयसासमानवयस्कौ वयःशब्देनसामर्थ्यंलक्ष्यते समानसामर्थ्यौ तदित् तदानीमेव यदाप्रवृद्धो- भवति तदानीमेव समानमर्थं समानप्रयोजननिष्पत्तिं मिथः प्रत्येकंवितरित्रताभृशं तरन्तौहोत्रध्वर्यू वपुः अग्नेःशरीरं युयूषतः स्वस्वव्यापारेणमिश्रयितुमिच्छतः प्रैषानन्तरंयाज्यादिपाठोहोतुर्व्यापारः वषट्कारानंतरंहोमोध्वर्योरितिविभागः अत्रेदमनुसंधेयं—सवयसा समानवयस्कौ मिथः प्रत्येकंसमा- नंप्रयोजनं सुखप्राप्तिंवितरित्रता विशेषेणतरितुमिच्छन्तौ तरतेर्यङ्लुगन्ताच्छतरिदाधर्त्यादौनिपात्य- ते द्विवचनस्याकारः जायापतीतद्वपुः तदेवपरस्परंशरीरं युयूषतः मिश्रयितुमिच्छतः परस्परमालि- ङ्गतः तद्वदग्निंसाकं होत्रध्वर्यूयुयूषतः आदींअनन्तरमेवहव्यः आहवनीयोऽग्निः सारथिः सरणशीलः सारथिवद्यज्ञात्मकस्यरथस्यनिर्वाहकोवा सन् अस्मत् अस्माकंसंबन्धिनोरश्मीन् रश्मिवदायताघृत- धाराः आसर्वतः समयंस्त सम्यक् स्वीकरोति तत्रदृष्टान्तद्वयमुच्यते—भगोन सर्वैःसेवनीयआदित्यइव सयथा सर्वतः पूजामादत्ते तद्वत् सारथिः रत्र्हस्ययन्ता वोढुर्वाहकस्याश्वादेः रश्मीन्न प्रग्रहानिव ता- न्यथास्वीकरोति तद्वदयमग्निरपि हवींषिसमयंस्त ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३