मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् ४

संहिता

यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा ।
दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा ॥

पदपाठः

यम् । ई॒म् । द्वा । सऽव॑यसा । स॒प॒र्यतः॑ । स॒मा॒ने । योना॑ । मि॒थु॒ना । सम्ऽओ॑कसा ।
दिवा॑ । न । नक्त॑म् । प॒लि॒तः । युवा॑ । अ॒ज॒नि॒ । पु॒रु । चर॑न् । अ॒जरः॑ । मानु॑षा । यु॒गा ॥

सायणभाष्यम्

यंईएनमग्निं द्वा द्वौ सवयसा समानवयस्कौ समानसामर्थ्यौ वा समानेयोना योनौ फलस्योत्पत्ति- स्थाने यज्ञे वर्तमानौ मिथुनादंपतीइव एककार्योद्युक्तौ समोकसा समाननिवासौ देवयजदस्थानौ ईदृ- शौ होत्रध्वर्यू सपर्यतःपूजयतः स्तुत्याहविःप्रदानेनचप्रीणयतः कदेत्याहदिवान अहनीव नक्तंरात्राव- पि सर्वदेत्यर्थः एवंपूज्यमानोऽग्निः पलितः पूर्वमंगारावस्थायांजीर्णोऽपि समिन्धनानन्तरं युवातरुणः तेजसासर्वस्य मिश्रयितावा अजनि जायते एवंजातोयं मानुषा युगा मनोःसंबन्धीनियुगानि जायाप- तिरूपाणि होत्रध्वर्युरूपाणिवोद्दिश्य पुरूचरन् बह्वाज्यादिकंभक्षयन् अजरः अजीर्णः जरारहितोव- र्तते ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३