मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् ६

संहिता

त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ ।
एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥

पदपाठः

त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य॑ । राज॑सि । त्वम् । पार्थि॑वस्य । प॒शु॒पाःऽइ॑व । त्मना॑ ।
एनी॒ इति॑ । ते॒ । ए॒ते इति॑ । बृ॒ह॒ती इति॑ । अ॒भि॒ऽश्रिया॑ । हि॒र॒ण्ययी॒ इति॑ । वक्व॑री॒ इति॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ॥

सायणभाष्यम्

हेअग्ने त्वंदिव्यस्यदिविभवस्य देवादेर्विद्युदात्मना वृष्ट्यादेर्वाराजसिईशिषे ऎशर्यनामैतत् तथा- पार्थिवस्यपृथिवीसंबन्धिनः मनुष्यादेः राजसि ईश्वरोभवसि किमन्यतंत्रत्वेननेत्याह—त्मनाआत्मनै- व स्वसामर्थ्येनैव तत्रदृष्टान्तः—पशुपाइव पशुपालकोयथास्वसामर्थ्येनैव पशूनांनिरोधनिर्गमनादि- व्यापारेषुसमर्थोभवति तद्वत् एतदॄष्टान्तेनअत्यन्तस्वातत्र्यमुक्तंभवति किंच यस्मादेवं तस्मात्ते तवब- र्हिर्यज्ञं एतेप्रसिद्धेएनी एतवर्णेशुभ्रे द्यावापृथिव्यौ आशाते अश्नुवातेव्याप्नुतः वर्णानुदात्तादितिङिप् तकारस्यनः कीदृश्यौते बृहती महत्यौअतिविस्तृते अभिश्रियाप्राप्तैश्वर्येअभितः सर्वतोवा हिरण्ययी हितरमणीये वक्वरीअतिकुशलंशब्दयन्त्यौ वचेर्वनिपि वनोरचेतिङीब्रेफौ छान्दसंकुत्वं वकिकौटित्न्ये- इत्यस्माच्छान्दसोनुमभावः ईदृश्यौ द्यावापृथिव्यौबर्हिरश्नुवाते ॥ ६ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३