मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४५, ऋक् १

संहिता

तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।
तस्मि॑न्त्सन्ति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टय॒ः स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पति॑ः ॥

पदपाठः

तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ ।
तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥

सायणभाष्यम्

हेयजमानाः तमग्निंपृच्छत यत् स्वर्गादिविषयंप्रष्टव्यमस्ति तत्तस्यैवप्रष्टव्यमस्ति तस्यैव प्रष्टव्य- त्वेतिशयमाह—सजगामससर्वत्रगच्छति अतएवसवेदसचप्रष्टव्यंजानाति किमितरसाधारण्येननेत्या- ह—सचिकितान् सएवचेतनावान् सविशॆषज्ञइत्यर्थः सएवईयते ज्ञेयसकाशंगच्छति पुनर्गतिरेवविशॆ- ष्यते सः सोऽग्निरेव नु क्षिप्रंईयते यद्यजमानस्य ज्ञेयमस्ति तमर्थं ज्ञातुं शीघ्रमेवगच्छतीत्यर्थः यद्वा ज्ञानार्थंईयते सेव्यते तथा शीघ्रं अनुसेव्यते यस्मादयमुक्तरूपः तस्मात्तमेव पृच्छतेत्यर्थः तत्रापेक्षिताः कामाःसन्तीत्याह तस्मिन्नग्नौ प्रशिषः प्रशासनानि नियमनसामर्थ्यानिसंति असाध्यंनियम्यापि सा- धयितुंशक्तइत्यर्थः किंच तस्मिन्नेवाग्नौ इष्टयएष्टव्याभोगाः सर्वफलसाधकायागावा संति किंच सोऽ– ग्निर्वाजस्य अन्नस्य शवसोबलस्यचपतिः पालयिता दाता किंच शुष्मिणोबलवतोराजादेरपि पतिः स्वामी यस्मादयं महानुभावः तस्मात्तमेव पृष्ट्वापुरुषार्थंसाधयतेति ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४