मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४५, ऋक् ३

संहिता

तमिद्ग॑च्छन्ति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।
पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोति॒ः शिशु॒राद॑त्त॒ सं रभः॑ ॥

पदपाठः

तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ ।
पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥

सायणभाष्यम्

जुह्वः अस्मदीयाजुहूपभृदादयः तमित् तमेवोद्दिश्यआज्युपूर्णाः सत्योगच्छन्ति प्रीणयितुं यद्वा हूयन्तइति जुह्वःआहुतयः सोमादिरूपाः अथवाजुह्वादिषुस्थितान्याज्यान्यपि आश्रयाश्रयिणोरभे- देनजुह्वैत्युच्यन्ते मंचाःक्रोशन्तीतिवत् ताअपितमेवगच्छन्ति अस्यसर्वदेवतात्मकत्वात् अत्रैवेतरदे- तार्थमपिहूयमानंचेतिभावः किंच अर्वतीः प्राप्तिमत्यः स्तुतयः तमित् तमेवाग्निंगच्छन्ति सर्वदेवता- त्मकत्वादेव सएवएकोयमग्निः विश्वानि मे मदीयानिवचांसि स्तोत्ररूपाणि श्रृणवत् श्रृणोति अग्नेः सर्वदेवतात्मकत्वं तैत्तिरीयाआहुः—तेदेवाबिभ्यतोऽग्निंपाविशन् तस्मादाहुरग्निःसर्वादेवतेति । तथा- त्रैवपरस्तादाम्नास्यते—त्वमग्नेवरूणोजायसेयत्त्वंमित्रइत्यदिकोऽस्यविशेषइत्युच्यते पुरुप्रैषः बहुप्रैष- भाक् यद्वा बहुप्रेषणः सर्वस्याज्ञापयितेत्यर्थः ततुरिःतारयिता तरतेरन्तर्ण्यर्थादादृगमहनइतिकिन् प्र- त्ययः बहुलंछन्दसीत्युत्वं यज्ञसाधनः यज्ञसाधकः अग्नयधीनत्वद्यज्ञस्य अच्छिद्रोतिः अविच्छिन्नरक्ष- णः शिशुः शिशुवत्प्रियकारी शोचयितावाशत्रूणां एवंभूतोऽग्निः संरभः यज्ञादिसंरंभवान् सन् आदत्त- आदत्ते हविरादिकंस्वीकरोति ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४