मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४५, ऋक् ५

संहिता

स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।
व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥

पदपाठः

सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ ।
वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥

सायणभाष्यम्

संईसएवाग्निः उपमस्यां उपमायां उपमास्पदायांत्वचि ओषध्यादिभिराच्छादितायां वेद्यां उप- निधायि उपस्थाप्यते उत्तरत्रोभोगाय कीदृशः समृगोमार्जयिता अन्वेषणशीलोवा मृगोमार्ष्टेर्गतिकर्म- णइतियास्कः । अप्यः आप्योगन्तव्यः अपः कर्मतत्रसाधुर्वा वनर्गुः वनगामी ऋच्छतेर्गमेश्चेदंरूपं यद्वा गमेरेव उपपदस्यरुडागमश्छान्दसः एवंभूतोऽग्निर्मर्त्येभ्योमरणधर्मेभ्योयजमानादिरूपेभ्योवयुना व- युनानि प्रज्ञानानिअनुष्ठेयज्ञानानिव्यब्रवीत् विशेषेणब्रवीति उपदिशति वयुनमितिप्रज्ञानाम वयुनम- भिख्येतितन्नामसुपाठात् ईदृक्सामर्थ्यमस्तीतिदर्शयति अयमग्निर्विद्वान्सरज्ञः ऋतचित् यज्ञस्योदक- स्यवाचेतिताज्ञाता सत्यः सक्त्रियमाणं कर्म तत्रसाधुः सत्सुभवोवा सत्फलं तदर्हतीतिवासम्यक् फल- प्रदइत्यर्थः यस्मादयमुक्तसामर्थ्योपेतः तस्मात्प्रज्ञोपदेशोयुक्तः हिशब्दःप्रसिद्धौ ॥ ५ ॥

त्रिमूर्धानमितिपंचर्चंषष्ठंसूक्तं दैर्घतमसंआग्नेयं पूर्वत्राग्नेयंतुतदित्युक्तत्वात् त्रिमूर्धानमित्यनुक्रम- णिका प्रातरनुवाकाश्विनशस्त्रयोः त्रैष्टुभेछन्दसिइदमादिसूक्तत्रयस्यविनियोगः अथैतस्याइतिखण्डे- सूत्रितम्—त्रिमूर्धानमितित्रीणीति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४