मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४६, ऋक् १

संहिता

त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ ।
नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांस॑म् ॥

पदपाठः

त्रि॒ऽमू॒र्धान॑म् । स॒प्तऽर॑श्मिम् । गृ॒णी॒षे॒ । अनू॑नम् । अ॒ग्निम् । पि॒त्रोः । उ॒पऽस्थे॑ ।
नि॒ऽस॒त्तम् । अ॒स्य॒ । चर॑तः । ध्रु॒वस्य॑ । विश्वा॑ । दि॒वः । रो॒च॒ना । आ॒प॒प्रि॒ऽवांस॑म् ॥

सायणभाष्यम्

अनयाग्निर्यज्ञरूपेणस्तूयते त्रिमूर्धानं सवनत्रयरूपमूर्धत्रयोपेतं द्वित्रिभ्यांपाद्दन्मूर्धसुबहुव्रीहावि- त्युत्तरपदात्तत्वम् किंच सप्तरश्मिं नियामकसप्तच्छन्दोयुक्तंअनूनं अविकलं संपूर्णफलं अग्निं अग्निसाध्यं अङ्गनादिगुणयुक्तंवा पित्रोरुपस्थे द्यावापृथिव्योरुत्संगे निषन्तं निषण्णं मध्येवर्तमानमित्यर्थः भूमि- स्थद्रव्येणद्युलोकस्थदेवताभिश्चसाध्यत्वादितियावत् किंच ध्रुवस्य निश्चलस्यचरतः हविर्भक्षयतोऽ– स्याग्नेः संबन्धिनं यज्ञं दिवः द्युलोकादागतानि विश्वानि रोचनानि देवविमानानि आपप्रिवांसं सर्वतः पूरयितारं गृणीषे गृणीहि स्तुहि यद्वा अयमग्निरेवोच्यते त्रिमूर्धानं मूर्धवदत्रक्षित्यन्तरिक्षद्युलोकाख्य- स्थानत्रयोपेतं लोकत्रयव्याप्तमित्यर्थः गार्हपत्यादिस्थानत्रयवर्तिनंवा सप्तरश्मिं सप्तज्वालं अनूनं पि- त्रोर्द्याव्यापृथिव्योरुपस्थेउत्संगे निषत्तं नसत्तनिषत्तेतिनिपातनान्निष्ठानत्वाभावः निषण्णंआपप्रिवांसं सर्वतः पूरयन्तंकामनां उक्तलक्षणविशिष्टमग्निं गृणीषेगृणीहि स्तुहि किंच चरतः सर्वत्रज्वालाभिर्ग- च्छतः ध्रुवस्यधृतत्वादविचलितस्यदिवोद्योतमानस्यास्याग्नेर्विश्वासर्वाणि रोचनारोचमानानितेजां- सि सर्वत्र व्याप्नुवन्तीतिशेषः ईदृशमग्निंस्तुहीत्यन्तरात्मनःप्रैषः ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५