मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४६, ऋक् ३

संहिता

स॒मा॒नं व॒त्सम॒भि सं॒चर॑न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ ।
अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥

पदपाठः

स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती । विष्व॑क् । धे॒नू इति॑ । वि । च॒र॒तः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
अ॒न॒प॒ऽवृ॒ज्यान् । अध्व॑नः । मिमा॑ने॒ इति॑ । विश्वा॑न् । केता॑न् । अधि॑ । म॒हः । दधा॑ने॒ इति॑ ॥

सायणभाष्यम्

समानंएकमेववत्सं वत्सस्थानीयं पुत्रवद्धर्षहेतुमग्निमभि अभिमुखंसंचरन्ती संचरन्त्यौ द्वेधेनू अ- ग्निहितकरणेनप्रीणयित्र्यौ पत्नीयजमानलक्षणेधेनू विष्वग्विचरतः संचरतः स्तनपानदिसदृशेन्धनप्र- क्षेपसंमार्जनादिनासम्यक् वर्धयतइत्यर्थः कीदृश्यौते सुमेकेशोभनकर्माणैशोभनमेहनेवापरिचरणकुश- लेइत्यर्थः किंच अनपवृज्यान् अपवर्जनीयरहितान् नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् अध्वनः मार्गान् अग्नेःप्रान्तप्रदेशान् केशाद्यमेध्यरहितान् मिमाने संपादयित्र्यौ किंच विश्वान् केतान् सर्वाणि- प्रज्ञानानि प्रवर्धनविषयाणि महोमहान्ति अधिअधिकंदधानेधारयन्त्यौ ईदृश्यावध्वर्युयजमानरूपे जायापतिरूपेवाधेनू विष्वग्विचरतः ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५