मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४६, ऋक् ५

संहिता

दि॒दृ॒क्षेण्य॒ः परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ ।
पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥

पदपाठः

दि॒दृ॒क्षेण्यः॑ । परि॑ । काष्ठा॑सु । जेन्यः॑ । ई॒ळेन्यः॑ । म॒हः । अर्भा॑य । जी॒वसे॑ ।
पु॒रु॒ऽत्रा । यत् । अभ॑वत् । सूः । अह॑ । ए॒भ्यः॒ । गर्भे॑भ्यः । म॒घऽवा॑ । वि॒श्वऽद॑र्शतः ॥

सायणभाष्यम्

अयमग्निः काष्ठासुपरस्परंव्यावर्तमानासुदशदिक्षुदिदृक्षेण्यः अनुग्रहदृष्ट्यादर्शनयुक्तोभवति यद्वा द्रष्टुमेष्टव्यः दर्शनेच्छाविषयभूतः दृशेःसन्नन्तात्कृत्यार्थेतवैकेन्केन्येतिकेन्यप्रत्ययः अतएवजेन्यः सर्वत्र- प्रादुर्भवनशीलोभवतिजयशीलोवा किंच प्रदानसमयेईळेन्यः स्तुत्योभवति किमर्थमेवंमहोमहतोदे- वादेः अर्भायअर्भकस्याल्पस्य यजमानादेर्वाजीवसेजीवनाय हविर्वहनेनप्रधनप्रदानेनेतिविविकःतत्रो- पपत्तिमाह—यदह यसमात्खलु पुरुत्रा बहुषु देशेषु देवमनुष्येत्यादिना त्राप्रत्ययःमघवा हविर्लक्षणा- न्नवान् विश्वदर्शतः सर्वद्रष्टव्यविषयवानयमग्निः एभ्योगर्भेभ्यः षष्ठ्यर्थेचतुर्थी एषामृत्विजांगर्भव- च्छिशुवदत्यन्तरक्षणीयानांसूरभवत् प्रसविता उत्पादयिताभवत् भवति तस्मान्नानाहृदारक्षमाणाः कवयः पदंनयन्तीतिपूर्वत्रसंबन्धः ॥ ५ ॥

कथातइतिपंचर्चंसप्तमंसूक्तंदैर्घतमसमाग्नेयंत्रैष्टुभं कथेत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोर- स्यसूक्तस्यविनियोगः त्रिमूर्धानमितित्रीणीत्यनेनोक्तः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५