मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४७, ऋक् १

संहिता

क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः ।
उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णय॑न्त दे॒वाः ॥

पदपाठः

क॒था । ते॒ । अ॒ग्ने॒ । शु॒चय॑न्तः । आ॒योः । द॒दा॒शुः । वाजे॑भिः । आ॒शु॒षा॒णाः ।
उ॒भे इति॑ । यत् । तो॒के इति॑ । तन॑ये । दधा॑नाः । ऋ॒तस्य॑ । साम॑न् । र॒णय॑न्त । दे॒वाः ॥

सायणभाष्यम्

हेअग्ने तेतवसंबन्धिनोरश्मयः शुचयन्तः दीप्तिंसर्वत्रचक्षाणाः प्रकटयन्तः आशुषाणाः आशुशीघ्रंसं- भक्तारः आशून्संभक्तारोवाय्वादेरपिशीघ्रंसंभक्तारइत्यर्थः यद्वा समन्ताच्छोषयितारः यद्वा सर्वंव्याप्नु- वन्तः अश्नोतेर्लिटःकानच् व्यत्ययेनोप्रत्ययः सिच्चेतिद्विविकरणता आङ्पूर्वादन्तर्भावितण्यर्थाच्छुषेः शानचि छान्दसःशपोलुक् आशुशब्दात्सनोतेःकर्मण्यण् ईदृशारश्मयोवाजेभिरन्नैःसहितं आयोः आयुः आयुष्यं कर्मणिषष्ठी कथाकेनोपायेनददाशुः ददति दाशृदाने छान्दसोलिट् तमुपायमगृहाणेत्यर्थः र- श्मीनांवरप्रदानंकुत्रदृष्टमितिचेत् उच्यते यद्यस्मात् उभेउक्तेअन्नायुषीतोकेपुत्रे तनये अनवच्छेदेनकुटुं- बस्यविस्तारके यद्वा तोकेपुत्रेतनयेतत्पुत्रादौच दधानाः धारयन्तोदेवाः व्यवहर्तारोयजमानाः ऋत- स्ययज्ञस्यसंबन्धिनिसामन् साम्निरथन्तरादौ रणयन्त रमन्ते रमयन्ति शब्दयन्त्येववा यस्मादन्नायुः पुत्रादिसहिताः सोमेनेष्ट्वासाम्निरमन्ते तस्माद्रश्मयोददतीत्यवगम्यतइत्यर्थःतादृशान्त्वदीयान्रश्मी- न्मामप्यनुगृहाणेत्यर्थः ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६