मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४७, ऋक् २

संहिता

बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः ।
पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं॑ वन्दे अग्ने ॥

पदपाठः

बोध॑ । मे॒ । अ॒स्य । वच॑सः । य॒वि॒ष्ठ॒ । मंहि॑ष्ठस्य । प्रऽभृ॑तस्य । स्व॒धा॒ऽवः॒ ।
पीय॑ति । त्वः॒ । अनु॑ । त्वः॒ । गृ॒णा॒ति॒ । व॒न्दारुः॑ । ते॒ । त॒न्व॑म् । व॒न्दे॒ । अ॒ग्ने॒ ॥

सायणभाष्यम्

हेयविष्ठ युवतम हेस्वधावः हविर्लक्षणान्नेन तद्वन्नग्ने मेमदीयस्यमंहिष्ठस्यातिशयेनपूजनीयस्य प्रभृतस्य प्रकर्षेणसंपादितस्यास्येदानींक्रियमाणस्यवचसः स्तुतिरूपस्यवचनस्य कर्मणिषष्ठी उक्तल- क्षणंवचः बोधबुध्यस्व स्तुतोभवेत्यर्थः हेअग्ने लोकेत्वः अत्रयास्कः—त्वोनेमइत्यर्धस्येत्युक्त्वैतदेवोदा- जहार । एकोजनः पीयति वधकर्मैतत् हिनस्ति यज्ञादिनानपूजयतीत्यर्थः त्वःएकः अनुगृणातिअनु- कूलंउच्चारयतितयोर्मध्ये हेअग्ने वंदारुर्वन्दनशीलोहं तेतवतन्वं तनुंतवमूर्तिं वन्देस्तौमि ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६