मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४८, ऋक् २

संहिता

द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् ।
जु॒षन्त॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥

पदपाठः

द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ । चा॒क॒न् ।
जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥

सायणभाष्यम्

मन्ममननीयंस्तोत्रं हविरादिकंवाददानमित् अग्नयेकुर्वाणमेवमां दंभितारोवैरिणोनददभंत दंभितुं हिंसितुंनप्रभवन्ति दंभेर्बहुलंछन्दसीतिविकरणस्यश्लुः व्यत्ययेनान्तादेशः ममकोऽतिशयइतिउच्यते तस्यप्रदातुर्ममवरूथं वरणीयं स्तोत्रादिकं अयमग्निश्चाकन् अत्यर्थं कामयते कनतिःकांतिकर्मा अस्मा- द्यङ्लुगन्ताल्लङि छान्दसोडभावः बहुलादेववाछान्दसस्तुजादित्वादभ्यासदीर्घः यस्मादेवंतस्मान्नद- भ्नुवन्तीत्यर्थः नकेवलमग्निरेवकामयते किंतु सर्वेदेवाः कामयन्तइत्याह—उपस्तुतिं तंतंदेवमुपेत्य क्रियमाणांस्तुतिंभरमाणस्यकुर्वाणस्य कारोःस्तोतुः अस्ययजमानस्यमम विश्वानि सर्वाणि हविःप्र- दानादिरूपाणि कर्माणिजुषन्त सेवन्ते सर्वेदेवाः अतोनददभन्तेत्यर्थः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७