मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४८, ऋक् ३

संहिता

नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः ।
प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥

पदपाठः

नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः ।
प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥

सायणभाष्यम्

यज्ञियासोयज्ञयोग्यायजमानाऋत्विजोवा यं मथनेनोत्पन्नमग्निं नित्येचित् सदने नित्यएवगार्ह- पत्यलक्षणे अग्र्यासादनस्थाने नु क्षिप्रं जगृभ्रे गृह्णन्ति ग्रहेर्लिटिइरयोरेइतिरेभावः हृग्रहोर्भइतिभत्वं नित्यंगतश्रियोध्रियते नित्यंगार्हपत्यमितिसूत्राद्गार्हपत्योनित्यः तदाश्रयत्वात्सदनमपिनित्यमुच्यते गृहीत्वाप्रशस्तिभिः प्रशंसाभिः स्तुतिभिः दधिरे धारयन्त्याहवनीयार्थं धृत्वाच इष्टौ एषणेसाधने- यज्ञेनिमित्तभूतेसति गृभयन्तः गृह्णन्तः ऋत्विजः प्रसूनयन्त सुष्ठुप्रणयन्ति तत्रदृष्टान्तः—ररहाणाः रंहसागच्छन्तः रहिगतौ छान्दसस्यलिटःकानच् अनित्यमागमशासनमितिनुमभावः रथ्योरभवन्तः तत्रनियुक्ताः छन्दसीवनिपावितिरथशब्दान्मत्वर्थीयईकारः अश्वासोन अश्वाइव तेयथाधृत्वा रथ- स्वामिनमभिमतदेशंनयन्तितद्वत् ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७