म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ ।
उप॒ ध्रज॑न्त॒मद्र॑यो वि॒धन्नित् ॥
म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । पतिः॑ । दन् । इ॒नः । इ॒नस्य॑ । वसु॑नः । प॒दे । आ ।
उप॑ । ध्रज॑न्तम् । अद्र॑यः । वि॒धन् । इत् ॥
महः महतः पूज्यस्य रायः गवादिरूपस्यधनस्यपतिः पालकः स्वामीसोऽग्निः दन् ददत् अभिमतं- प्रयच्छन् ददातेःशतरिछान्दसःश्पोलुक् तस्यछन्दस्युभयथेत्यार्धाधातुकत्वादातोलोपइटिचेत्याकार- लोपः आआभिमुख्येन अस्मद्देवयजनंप्रति ईषते गच्छति किंच इनस्यस्वामिनोऽपि इनः स्वामीसर्व- स्यपतिरित्यर्थः ईदृशोऽयं वसुनोधनस्यपदेआस्पदभूतेवेदिस्थानेआआश्रयति उपसर्गवशाद्योग्यक्रिया- ध्याहारः यद्वा वसुनोनिवासयोग्यस्य धनस्यापिइनइतिसंबन्धः यद्वा वसुप्राप्तिः प्रसिद्धा किंच उप- ध्रजंतं उपगच्छन्तमेनंअभिषवार्थं अद्रयः ग्राववन्तोयजमानाः विधन्नित् परिचरन्त्येव विधविधाने तौदादिकः लङि बहुलंछन्दसीत्यडभावः निघाताभावश्छान्दसः यद्वा पूर्वत्रतच्छब्दश्रुतेः अत्रयच्छ- ब्दाध्याहारेणास्यसंबन्धादनिघातः यद्वा अद्रयोभिषवग्रावाणः स्वशब्दैः उपौपेत्यविधन्नित्पूजयन्त्ये- व आह्लादंजनयन्तीत्यर्थः ॥ १ ॥