मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४९, ऋक् २

संहिता

स यो वृषा॑ न॒रां न रोद॑स्यो॒ः श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः ।
प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥

पदपाठः

सः । यः । वृषा॑ । न॒राम् । न । रोद॑स्योः । श्रवः॑ऽभिः । अस्ति॑ । जी॒वपी॑तऽसर्गः ।
प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ॑ ॥

सायणभाष्यम्

सतादृशोयोऽग्निः नरांन मनुष्याणामिव रोदस्योः द्यावापृथिव्योरपि वृषा सेक्ताउत्पादकइत्यर्थः एवंसर्वोत्पादकः श्रवोभिः सर्वत्रश्रूयमाणैर्यशोभिर्युक्तःसन् अस्तिवर्तते सर्वोत्पादकइत्युक्तं तत्रोपप- त्तिमाह—यतोयंजीवपीतसर्गः जीवैर्नानाविधैः पीताअस्वादितः सर्गः सृष्टिक्रमोयस्यसतथोक्तः तृती- याकर्मणीतिपूर्वपदप्रकृतिस्वरः पुनर्वहुव्रीहौसएवस्वरः अत्रायंसृष्टिक्रमः अयमग्निः स्वदत्तंहविरादि- त्यंप्रापय्य तद्रश्मिभिःसहवैद्युतरूपे यद्वारोदकेनप्रवर्ष्य सर्वान्प्राणिनः प्रापयतीत्यतोवृष्ट्युत्पादनद्वा- रोत्पादयिता इदानींसाक्षादुत्पादकत्वमाह—योऽग्निर्योनौगर्भाशये सस्राणःप्रविष्टःसन् शिश्रीत निषि- क्तंरेतः पारयति नृपश्वादिदेहाकारेणपरिणमयतीत्यर्थः यद्यग्निर्नपचेत्पूरयेदेवनोत्पद्येत तस्मादयंसा- क्षादेवोत्पादकः सतादृशोऽग्निः यशस्वीवर्ततइत्यर्थः यद्वा योऽग्निर्नरांन नराणांकर्मसूत्साहयुक्तानांय- जमानानामिव नरामनुष्यानृत्यन्तिकर्मस्वितियास्कः । तेषांयथास्वर्गाद्यमतवर्षकः तद्वद्रोदस्योरपि आश्रयवाचिनाशब्देनाश्रयिणोलक्ष्यन्ते भूलोकवर्तिनांवृष्टिप्रदानेनद्युलोकवर्तिनांहविः प्रापणेनेतिभा- वः सतादृशोऽग्निः श्रवोभिः हविर्लक्षणैः सोमाज्यादिभिरन्नैः निमित्तभूतैः जीवपीतसर्गः जीवविशेषै- र्यजमानैः अविशेषेणसर्वैर्वा आस्वादितस्वभावःसन् अस्तिप्रकृष्टोवर्तते अमुमग्निंहविर्भिःप्रीणयित्वा- स्वाभिमतान्भोगान्भुं जतइत्यर्थः किंच योऽग्निः योनौ स्वकीयस्थाने वेदिलक्षणेसस्राणः प्रविष्टःसन् शिश्रीत स्वस्मिन्प्राप्तंपुरोडाशादिकंपचति सोऽयमग्निरस्ति महानुभावोवर्तते ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८