मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५०, ऋक् १

संहिता

पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥

पदपाठः

पु॒रु । त्वा॒ । दा॒श्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव॑ । स्वि॒त् । आ ।
तो॒दस्य॑ऽइव । श॒र॒णे । आ । म॒हस्य॑ ॥

सायणभाष्यम्

हेअग्ने त्वात्वांपुरुबहुवोचे यद्वा बहुदाश्वानितिसंबन्धः पुत्रंदेहिवित्तंदेहि इत्याद्याशासना निब्र- वीमीत्यर्थः किंतूष्णींनेत्याह—यतोदाश्वान् अभिमतंहविर्दत्तवानस्मि अतोवोचे इतरसाधारण्येनब्रु- वतः कथंदातव्यमितिनमन्तव्यं यतोऽहं हेअग्नेतवस्वित् तवैवआआभिमुख्येन अरिः अर्ताहविरादिप्रा- पणेनसेवकोहं तत्र दृष्टान्तः—महस्यमहतः तोदस्येव शिक्षकस्य स्वामिनः शरणेऽस्यगृहे यथागर्भदा- सादिरासमन्तान्नियतोवर्तते तद्वदहमपि यस्मादेवंतस्मादभिमतं बहुवोचे त्वमपित्सर्वं देहीत्यर्थःअत्र- निरुक्तं—बहुदाश्वांस्त्वामेवाभिह्वयाम्यरिरमित्रऋच्छतेरीश्वरोऽप्यरिरेतस्मादेवयदन्यदेवत्याअग्ना- वाहुतयोहूयन्तइत्येतदॄष्ट्वैवमवक्ष्यत् तोदस्येवशरणआमहस्य तुदस्येवशरणेऽधिमहतइति ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९