मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५०, ऋक् २

संहिता

व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।
क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥

पदपाठः

वि । अ॒नि॒नस्य॑ । ध॒निनः॑ । प्र॒ऽहो॒षे । चि॒त् । अर॑रुषः ।
क॒दा । च॒न । प्र॒ऽजिग॑तः । अदे॑वऽयोः ॥

सायणभाष्यम्

पूर्वमन्त्रेस्वाभीष्टंबहुविज्ञापयामीत्युक्तं अत्रतुस्वविलक्षणेभ्योदानादिरहितेभ्योदानंनदातव्यमि- तिप्रार्थयते हेअग्ने त्वांविशेषेणब्रवीमि उपसर्गश्रुतेर्योग्यक्रियाध्याहारः अथवा सन्निहितत्वाद्वोचेइत्य- नुषज्यते अस्मदर्थं यद्भ्यजिज्ञपन् तद्विरुद्धंवोचेवक्ष्यमाणस्वरूपस्यनदातव्यमितिब्रवीमीत्यर्थः तेषां- स्वरूपमाह—अनिनस्य अस्वामिनः त्वांअस्वामिनंकुर्वाणस्य तथा धनिनः समग्रधनवतः पूर्वमेव धनवतोदानस्य निरर्थकत्वात्तन्निवार्यते यद्वा यागाद्यनुपयोगिधनवतइत्यर्थः किंच प्रहोषेप्रकर्षेणहो- तुंअररुषः अददतोदक्षिणारूपेण यद्वा प्रहोषेअनिनस्येतिसंबंधः प्रकर्षेणहोतुं असमर्थस्येत्यर्थःअत्रइन- शब्देनतत्स्थंसामर्थ्यंलक्ष्यते चिच्छब्दःसमुच्चयार्थः किंच कदाचनप्रजिगतः कदाचिदपिप्रकर्षेणदेवान- स्तुवतः अत्र चनेतिनिपातद्वयसमुदायः तत्र चशब्दःसमुच्चये नशब्दोनिषेधे किंच अदेवयोः देवानात्मनोनिच्छातः एतेषांनदातव्यमितिविवोचइत्यर्थः निन्दितानांस्वरूपनिरूपणेनस्वस्यातादृ- शत्वात् बहुवोचइत्येतद्युक्तमेवेत्युक्तंभवति यद्वा चनेतिचिच्छब्दपर्यायः उक्तप्रकारेणदुष्टस्यापिकदा- चित्प्रजिगतः यदाकदाचित्त्वांस्तुवतः विवोचे तादृशस्य दातव्यमितिविशेषेणब्रवीमि किमुवक्तव्य- मस्मदर्थमितिभावः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९