मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् १

संहिता

मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् ।
अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ॥

पदपाठः

मि॒त्रम् । न । यम् । शिम्या॑ । गोषु॑ । ग॒व्यवः॑ । सु॒ऽआ॒ध्यः॑ । वि॒दथे॑ । अ॒प्ऽसु । जीज॑नन् ।
अरे॑जेताम् । रोद॑सी॒ इति॑ । पाज॑सा । गि॒रा । प्रति॑ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा॑म् । अवः॑ ॥

सायणभाष्यम्

यमग्निंशिम्या कर्मनामैतत् शिमीशक्तिरितितन्नामसुपाठात् प्रकाशवृष्ट्युत्पादनादिकर्मणामित्रंन मित्रमिवस्थितं यद्वा शिम्येत्येतत् क्रिययासहसंबध्यते गोषुबह्वीषु निमित्तभूतासुगव्यवः गाआत्मन- इच्छन्तः अत्रयद्यपिगव्यवइत्येवालं नगोष्विति तथापि गव्यवइत्यत्रगोस्वामित्वंप्रतिपाद्यते तच्चैक- याद्वित्वादपिस्यात् अतःस्पृहणीयावह्व्यइत्यवगमयितुंगोष्वितिपदं यथा गवामसिगोपतिः । गणा- नांत्वागणपतिम् । तथास्वाध्यः सुष्ठुआध्यातारः फलस्योत्पादयितारः शोभनध्यानावाविदथेयागे अप्सुअंतरिक्षेवैद्युतरूपेणवर्तमानं आपइत्यन्तरिक्षनाम आपः पृथिवीतितन्नामसूक्तत्वात् अग्नेरन्तरि- क्षोत्पत्तिः यदग्नेदिविजाअस्यप्सुजावा अप्स्वग्नेसधिष्टवइत्यादिमन्त्रान्तरेषुप्रसिद्धा प्रियंसर्वेषांप्रियत- मंप्रीणयित्रारंवा यजतंयष्टव्यंअग्निं जनुषांजन्मवतांप्राणिनां अवःप्रति रक्षणंनिमित्तीकृत्यशिम्यामथ- नादिकर्मणाजीजनन् जनयन्तियजमानाः यद्वा अप्सु निमित्तभूतासुजीजनन् सर्वप्राणिनामुपकाराय- वृष्ट्यर्थंचेत्यर्थः एवमुत्पन्नस्याग्नेः पाजसाबलेन गिरा भयंकरशब्देनचरोदसीद्यावापृथिव्यावरेजेतां अकंपेतां अग्नेःसकाशात् कंपनं अरेजेतां रोदसीहोतृवूर्यइत्यादिश्रुतिषुप्रसिद्धम् । नचसर्वरक्षणार्थमुत्पा- दितोऽग्निर्लोकद्वयस्यभीतिमजनयत् किमेतदितिवाच्यं निंदास्तुतित्वात् यथालोकौविभीतः तथाप्रवृ- द्धोभवदितिस्तुतौपर्यवसानात् यद्यप्यत्राग्निरेवप्रतिपाद्यते मित्रस्तुपरंदृष्टान्तितएव तथापिद्युस्थान- स्याग्नेरेवमित्रत्वान्मन्त्रस्यमैत्रत्वमविरुद्धम् यद्वा मित्रंन सखायमिवस्थितंमित्रनामकंदेवं यज्ञेऽन्तरि- क्षेवाऋत्विजः प्रादुर्भावयन्ति शिष्टमेतद्विशेषेण तथैवयोजनीयम् ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०