मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् २

संहिता

यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिन॒ः प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ ।
अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥

पदपाठः

यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒ऽमी॒ळ्हस्य॑ । सो॒मिनः॑ । प्र । मि॒त्रासः॑ । न । द॒धि॒रे । सु॒ऽआ॒भुवः॑ ।
अध॑ । क्रतु॑म् । वि॒द॒त॒म् । गा॒तुम् । अर्च॑ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य॑ऽवतः ॥

सायणभाष्यम्

हेमित्रावरुणौ यद्यस्मात्कारणाद्वांयुवां पुरुमीह्ळस्यबहुलाभीष्टसेचनस्य सोमिनः स्वाभुवः सो- मवतः स्वाभवनशीलस्य कर्मणिषष्ठी त्यत् उक्तलक्षणंकर्म मित्रासोन मित्राणीव मित्रभूताःऋत्विजः प्रदधिरे प्रकर्षेणधारयन्ति हेतिपूरणः अध अतः कारणात् गातुं युष्मद्गमनं अर्चते षष्ठ्यर्थेचतुर्थी अर्चतःपूजयतोयजमानस्य क्रतुंकर्म विदतंजानीतम् विदेर्लोटिव्यत्ययेनशः उत अपिच हेवृषणा का- मानांवर्षितारौ युवांपस्त्यावतः पस्त्येतिगृहनाम पस्त्यादुरोणइतितन्नामसूक्तत्वात् सदः प्राधीन- वंशादिगृहवतोयजमानस्य आह्वानं स्तोत्रं वाश्रुतंश्रृणुतं छान्दसोविकरणस्यलुक् यद्वा यद्यस्मात्सो- मिनः सोमवतः पुरुमीह्ळस्य एतन्नामकस्यराज्ञोमित्रासोन मित्राणीवस्थिताः स्वाभुवः स्वाभवन- शीलाः स्वस्वव्यापारसमर्थाः दधिरे अधअतः कारणात् तस्यार्चते अर्चतः क्रतुंविदतमित्यादिपूर्ववत् ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०