मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ४

संहिता

प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् ।
यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ॥

पदपाठः

प्र । सा । क्षि॒तिः । अ॒सु॒रा॒ । या । महि॑ । प्रि॒या । ऋत॑ऽवानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् ।
यु॒वम् । दि॒वः । बृ॒ह॒तः । दक्ष॑म् । आ॒ऽभुव॑म् । गाम् । न । धु॒रि । उप॑ । यु॒ञ्जा॒थे॒ इति॑ । अ॒पः ॥

सायणभाष्यम्

हेअसुरा असुरौ बलवन्तौ मित्रावरुणौ युवयोः याक्षितिः देवयजनरूपा महि महती अत्यधिका प्रिया प्रियतरा प्रीणयित्रीवासाक्षितिः प्रकर्षेणसंपादिता उपसर्गश्रुतेर्योग्यक्रियाध्याहारः तामासीद- तमितिशेषः यागभूमिर्देवानांप्रियेतिप्रसिद्धम आसाद्यच हेऋतावानौऋतवन्तौ युवांबृहत्प्रवृद्धं ऋत- मस्मदीयं यज्ञं आघोषथः अवैकल्येनसंपादितइतिस्तुतमित्यर्थः यतोयुवं युवां बृहतोमहतोदिवोद्युलो- कस्य धुरि दक्षं तर्पणवहनेसमर्थं अथवा बृहतोदिवः महतोद्युलोकस्थदेवान् दक्षं प्रीणयितुमितिशेषः यद्वा कर्मणिषष्ठी दिवोद्योतनात्मकंबृहतः प्रभूतं दक्षं अभिमतसाधनसमर्थं आभुवंसर्वतोभवनशीलं अपः कर्म सोमयागरूपं उपयुंजाथे सेवेथे तत्रत्थं हविःस्वीकरुथ इत्यर्थः उपयोगेदृष्टान्तः-धुरिशारी- रबलस्यनिर्वाहे तदर्थांगांन धेनुमिव तांयथाउपयुंजेततद्वत् यद्वा विकारेप्रकृतिशब्दः क्षीरादिकमिव तस्मादृतमाघोषथः ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०