मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ५

संहिता

म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म॑न्धे॒नवः॑ ।
स्वर॑न्ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥

पदपाठः

म॒ही इति॑ । अत्र॑ । म॒हि॒ना । वार॑म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः॑ । तुजः॑ । आ । सद्म॑न् । धे॒नवः॑ ।
स्वर॑न्ति । ताः । उ॒प॒रऽता॑ति । सूर्य॑म् । आ । नि॒ऽम्रुचः॑ । उ॒षसः॑ । त॒क्व॒वीःऽइ॑व ॥

सायणभाष्यम्

हेमित्रावरुणौ युवां महीमहत्यां सप्तम्येकवचनेपूर्वसवर्णदीर्घःईदूतौचसप्तम्यर्थेइतिप्रगृह्यता अत्रा- स्यांपृथिव्यां महिनामहत्त्वेन याधेनूः वारं वरणीयं प्रदेशमृण्वथः संपादयथः अंतर्भावितण्यर्थोयं गम- नादिव्यवहारस्यतयोरधीनत्वात् द्यावापृथिव्योरभिमानिदेवत्वाच्चमित्रावरुणयोः ताएताधेनवोगावः सायंकालेयुष्मन्महन्वेन अरेणवः अनवद्याः तस्कराद्यनपहारेणानष्टावा तुजः श्रीराणांप्रदात्र्यःतुजति- र्दानकर्मा सद्म्यन् सद्भ्यनिगोष्ठे आआश्रिताः आगच्छन्तिवा उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ताएवं- कारिताधेनवः उपरताति उपरतातौ सप्तम्यालुक् मेघानां विस्तारवत्यन्तरिक्षे मेघाच्छन्नेसति सूर्यं सर्वस्यप्रसवितारं सुवीर्यं शोभनसामर्थ्यं वा सुवीर्योमर्यायथागोपायतइति तत्सूर्यस्यसूर्यत्वमितिश्रु- त्यन्तरात् । आदित्यमभिलक्ष्यस्वरन्ति स्वर्यंतिसुखसंचाराय स्वृशब्दोपतापयोः भौवादिकः कस्मि- न्कालेइतितदुच्यते—निम्रुचः उषसः सर्वेष्वपिसायंकालेषूषःकालेषुच तत्रदृष्टान्तः—तक्ववीरिव त- क्वास्तेनः तस्यवेतागन्तामनुष्यः सयथाक्रोशतितद्गत् एवंनिरुद्धानां गवांसुखसंचारोयुष्मदायत्तइति- तयोःस्तुतिः ॥ ५ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०