मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ६

संहिता

आ वा॑मृ॒ताय॑ के॒शिनी॑रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः ।
अव॒ त्मना॑ सृ॒जतं॒ पिन्व॑तं॒ धियो॑ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ॥

पदपाठः

आ । वा॒म् । ऋ॒ताय॑ । के॒शिनीः॑ । अ॒नू॒ष॒त॒ । मित्र॑ । यत्र॑ । वरु॑ण । गा॒तुम् । अर्च॑थः ।
अव॑ । त्मना॑ । सृ॒जत॑म् । पिन्व॑तम् । धियः॑ । यु॒वम् । विप्र॑स्य । मन्म॑नाम् । इ॒र॒ज्य॒थः॒ ॥

सायणभाष्यम्

हेमित्रावरुणौ केशिनीः केशवत्योग्नेर्ज्वालाः वांयुवयोः ऋताय यज्ञार्थं आनूषत हविः समर्पणेना- भिपूजयन्तीत्यर्थः कुत्रेतितदुच्यते—हेमित्र हेवरुण युवामुभौ यत्रयागे गातुं गमनं देवयजनदेशंवा गातुरितिपृथिवीनाम गातुः पूषेत्युक्तत्वात् अर्चथः पूजयथः स्वीकुरुथइत्यर्थः आगत्यच त्मना आत्म- नैव अवसृजतं वृष्टिमवाङ्मुखंविसृजतं तथाकृत्वाधियोऽस्मदीयानिकर्माणि पिन्वतं वर्धयतमित्यर्थः एवंकृत्वाविप्रस्यमेधाविनः यजमानस्य मन्मनां मननवतीनां स्तुतीनां युवं युवां इरज्यथः ईश्वरौ स्वामिनौभवथः इरज्यतिरैश्वर्यकर्मा इरज्यतिपत्यतइतितन्नामसूक्तत्वात् ॥ ६ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१