मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ७

संहिता

यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः ।
उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं ग॑न्तमस्म॒यू ॥

पदपाठः

यः । वा॒म् । य॒ज्ञैः । श॒श॒मा॒नः । ह॒ । दाश॑ति । क॒विः । होता॑ । यज॑ति । म॒न्म॒ऽसाध॑नः ।
उप॑ । अह॑ । तम् । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । अच्छ॑ । गिरः॑ । सु॒ऽम॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

सायणभाष्यम्

योह यःखलुयजमानोवां युवामुद्दिश्ययुवाभ्यांवा यज्ञैर्यागैर्निमित्तभूतैः शशमानः शंसमानोदाश- तिहविरादिकं स्वस्वत्वंनितर्त्य युष्मत्स्वत्वापादनंकरोति यएवकविः अनूचानः येवाअनूचानास्तेक- वयइतिश्रुतेः । अथवाकविर्मेधावी होता सम्यक् होमनिष्पादकोयजमानोमन्मसाधनः मननीयद्रव्य- दक्षिणादिसाधनोपेतः सन् यजति सोमयागादिकंकरोति तमेवयजमानं सुमतिं शोभनप्रज्ञंउपलक्ष्य गच्छथःअह प्राप्नुथःखलु प्राप्यच अध्वरं तदीयंयज्ञं वीथःकामयेथे किंच अस्मयू अस्मान्कामयमानौ युवांगिरः स्तुतीः अच्छ अभिलक्ष्य गन्तं गच्छतं तादृशंमां प्राप्यस्तुतीःस्वीकुरुतमित्यर्थः अत्रयद्यपि तमितिसामान्यनिर्देशःप्रतिभाति तथापि अस्मयूइत्यूक्तत्वाद्दीर्घतमाः स्वात्मानमेव परोक्षतयोक्तवा- नितिगम्यते यद्वा योदाशति यश्चयजतेतमुपेत्यतदीयंयज्ञंकामयेथेअतोस्मयू युवां सुमतिं मां मदीया- गिरः स्तुतीः अच्छ अभिलक्ष्यगच्छतम् ॥ ७ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१