मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ९

संहिता

रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नम् ।
न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ॥

पदपाठः

रे॒वत् । वयः॑ । द॒धा॒थे॒ इति॒॑ । रे॒वत् । आ॒शा॒थे॒ इति॑ । नरा॑ । मा॒याभिः॑ । इ॒तऽऊ॑ति । माहि॑नम् ।
न । वा॒म् । द्यावः॑ । अह॑ऽभिः । न । उ॒त । सिन्ध॑वः । न । दे॒व॒ऽत्वम् । प॒णयः॑ । न । आ॒न॒शुः॒ । म॒घम् ॥

सायणभाष्यम्

हेमित्रावरुणौ युवांरेवत् धनवत् वयोऽन्नं दधाथे उभयंच धारयथः यस्मादेवंतस्माद्रेवत् धनवत् सहदृष्टत्वात् वयइतिगम्यते धनविशिष्टमन्नं हेनरानेतारौ युवांआशाथे अश्नुवाथे अस्मभ्यं ददाथे इत्य- र्थः कीदृशं मायाभिः युवयोःप्रज्ञाभिः इतऊति इतःअस्मदभिमुखं गमनवत् इतोरक्षणवद्वा माहिनं म- हन्नामैतत् अतिमहत् ईदृशोरावयोरेतादृशंसामर्थ्यंकुतइत्यतआह—वांयुवयोर्देवत्वं अहभिरहोभिःरा- त्रिभिः अत्राहःशब्देनरात्रिरभिधीयते द्योशब्देनाह्नः पृथगभिधानात् ताभिःसहिताद्यावोदिवसाना- नशुः तथायुवयोर्देवत्वंपणयोऽसुराअपि नानशुः भघंधनंचनानशिरे लोकत्रयेयुवयोः पराभवितारोन- केपिसन्तीत्यर्थः ॥ ९ ॥

युवंवस्त्राणीतिसप्तर्चं द्वादशंसूक्तं दैर्घतमसं अनादेशपरिभाषयात्रैष्टुभं मैत्रावरुणं पूर्वत्रमैत्रावरुणं- हीत्युक्तत्वात् सूक्तविनियोगोलैंगिकः मैत्रावरुणेपशावाद्यावपायायाज्या प्रदानानामितिखण्डेसूत्रित- म्—युवंवस्त्राणिपीवसावसाथेप्रबाहवासिसृतंजीवसेनइति सैवसमावर्तने नववस्त्रधारणेविनियुक्ता सूत्रितंच—युवंवस्त्राणिपीवसावसाथेइत्यहतेवाससीआच्छाद्येति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१