मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५२, ऋक् २

संहिता

ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्र॑ः कविश॒स्त ऋघा॑वान् ।
त्रि॒रश्रिं॑ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥

पदपाठः

ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् ।
त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥

सायणभाष्यम्

एषंएतयोर्मध्ये बहुवचनंपूजार्थं यद्वा तदनुचरापेक्षयाबहुवचनं एतयोर्मध्ये त्वःचन एकएवएतत् वशेषेणचेतति अनुतिष्ठतीत्यर्थः सविशेष्यते सएकःसत्योबाध्यः सत्सुभवोवामन्त्रोमननवान् कविश- स्तः कविभिर्मेधाविभिः शंसनीयःऋघावान् हिंसावान् अनेन वक्ष्यमाणस्यसामर्थ्यस्यसंभाविताप्रति पादिताभवदित्युक्तम् किंतदित्याशंक्याह त्रिरश्चिं अश्रित्रयोपेतमायुधंत्रिरश्रि तद्वंतं मत्वर्थोलुप्यते उपलक्षणमेतत् सर्वायुधसंपन्नमित्यर्थः एतन्नामानंवाचतुरश्रिः ततोप्यधिकायुधवान् नकेवलमायुध- सामर्थ्यं किंतु उग्रः स्वयमुद्गूर्णबलः हन्तिहिनस्ति अतिबलंशत्रुं किंच युवयोरेकस्यैव सामर्थ्येन देव- विदोह देवनिन्दकास्तुप्रथमाःसमर्थाःसन्तोऽपि अजूर्यन्स्वयमेवजीर्णाभवन्ति जीर्यतेःश्यनि बहुलं- छन्दसीत्युत्वं युवयोर्मध्येएकोऽपिमहाबलः मिलितयोस्तुसामर्थ्येकिमुवक्तव्यमितिभावः अथवा एषांयुवयोरेतत् उत्तरत्रवक्ष्यमाणं सामर्थ्यंएकः सप्यादिलक्षणोविचिकेतत् विशेशेणजानाति शेषं पूर्ववत् ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२