मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५२, ऋक् ४

संहिता

प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानम् ।
अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥

पदपाठः

प्र॒ऽयन्त॑म् । इत् । परि॑ । जा॒रम् । क॒नीना॑म् । पश्या॑मसि । न । उ॒प॒ऽनि॒पद्य॑मानम् ।
अन॑वऽपृग्णा । विऽत॑ता । वसा॑नम् । प्रि॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ ॥

सायणभाष्यम्

कनीनां कमनीयानां दीप्तानांकन्यकास्थानीयानां उषसांकनतेःकांतिकर्मणइञ् कृदिकारादक्तिन- इतिङीष् आमि कन्याशब्दस्यवाछन्दसंसंप्रसारणं तासांजारमादित्यंप्रयन्तमित् प्रगच्छन्तमेवपरिप- श्यामसिवयंपरिपश्यामः उपनिपद्यमानंक्षणमात्रमपिनिषीदन्तं नपश्यामः एतदपितयोःसामर्थ्यं पु- नस्तदेवविशेष्यते अनवपृग्णा अनवपृग्णानि असंपृक्तानिअतएवविततानि तेजांसिवसानंआच्छादय- न्तं प्रियंसर्वेषांप्रियभूतंमित्रस्यवरुणस्यचधामतेजः स्थानभूतं यद्वा प्रियंधामेतिसंबध्यते तयोःप्रेम- स्थानं ईदृशमादित्यं युष्मदनुज्ञयासंचरन्तंपश्यामसि ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२