आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् ।
अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥
आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । नम॑सा । दे॒वौ॒ । अव॑सा । व॒वृ॒त्या॒म् ।
अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । स॒ह्याः॒ । अ॒स्माक॑म् । वृ॒ष्टिः । दि॒व्या । सु॒ऽपा॒रा ॥
हेदेवौदेवनशीलौ मित्रावरुणा मित्रावरुणौ वांयुवां हव्यजुष्टिं हविःसेवां नमसानमस्कारोपलक्षि- तेनस्तोत्रेण अवसारक्षणेननिमित्तभूतेन आववृत्यां आवर्तयेयं यद्वा नमस्कारेणअवसा अन्नेनच आव- वृत्यां किंच हेमित्रावरुणौ अस्माकंसंबन्धिब्रह्मेदानींक्रियमाणं परिवृढंकर्म पृतनासुसंग्रामेषु सह्याः सह्यात् शत्रूनभिभूयात् अनेनकर्मणाशत्रूनभिभवेयमित्यर्थः किंच अस्माकं दिव्यादिविभवावृष्टिः सु- पारासुष्ठुपारयित्रीभवत्वितिशेषः वृष्टौसत्यांव्रीह्यादिद्वाराकर्मसमाप्तेरिति भावः ॥ ७ ॥
यजामहेवामितिचतुरृचंचतुर्दशंसूक्तं दैर्घतमसंत्रैष्टुभं मैत्रावरुणं यजामहेचतुष्कमित्यनुक्रमणिका विनियोगोलैङ्गिकः ।