मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५३, ऋक् १

संहिता

यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः ।
घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर॑न्ति ॥

पदपाठः

यजा॑महे । वा॒म् । म॒हः । स॒ऽजोषाः॑ । ह॒व्येभिः॑ । मि॒त्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
घृ॒तैः । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । अध॑ । यत् । वा॒म् । अ॒स्मे इति॑ । अ॒ध्व॒र्यवः॑ । न । धी॒तिऽभिः॑ । भर॑न्ति ॥

सायणभाष्यम्

हेघृतस्नू घृतस्यस्रावयितारौ मित्रावरुणौ महोमहान्तौ वां यजामहे पूजयामः यजमानाऋत्विज- श्च कीदृशाः सजोषाः समानप्रीतियुक्ताः केनसाधनेनेतितदुच्यते—हव्येभिः पुरोडाशादिभिः घृतैश्च- नमोभिः नमस्कारोपलक्षितैः अधअपिच यद्यस्मात्कारणात् वांयुवां अस्मेअस्मदीयाध्वर्यवोन अध्व- र्यवोऽपि अत्रनशब्दोप्यर्थे तेपिधीतिभिः स्वकीयैःकर्मभिः भरन्ति पोषयन्ति तस्माद्यजामहे ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३