मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५३, ऋक् २

संहिता

प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः ।
अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥

पदपाठः

प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः ।
अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥

सायणभाष्यम्

हेमित्रावरुणौ वांयुवयोः संबंधिनोः यागस्यप्रस्तुतिः प्रस्तावना करोमीतिसंकल्पएव नप्रयुक्तिः कृत्स्नप्रयोगोनसंपन्नः तावतैव युवयोर्धामतेजः स्थानमयामि प्राप्नोमिसुवृक्तिः युवयोः शोभनावर्ज- कश्चयुष्मत्परिग्रहादस्मि यत् यदातु विदथेषुयज्ञेषुवांयुवांहोताहोमनिष्पादकोयमध्वर्युः अनक्तिहवि- वागच्छति होमंकरोतीत्यर्थः यद्वा होतादेवानामाह्वाता एतन्नामकऋत्विक् शस्त्रादिनावांअनक्ति- व्यंजयति तदासूरिर्युष्मत्संबन्धिसुखं देवत्वलक्षणं अयामीतिशेषः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३