मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५३, ऋक् ३

संहिता

पी॒पाय॑ धे॒नुरदि॑तिरृ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे ।
हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥

पदपाठः

पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे ।
हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥

सायणभाष्यम्

हेमित्रावरुणामित्रावरुणौ ऋताययुष्मत्संबन्धियज्ञाय हविर्दे हविषोदात्रे आतोमनिन्नितिविच् टेर्भत्वेआतोधातोरित्याकारलोपः जनाययजमानायचधेनुःप्रीणयित्रीगौःअदितिःअदीनाबहुक्षीरास- तीपीपायक्षीरेण्पुनःपुनः आप्यायतां प्यायतेश्छान्दसः प्रार्थनायांलिट् लिड्यङोश्चेतिपीभावः पय- स्यादिहविष्कंयज्ञं पयोव्रतादिषुयजमानंचेत्यर्थः कस्मिन्कालइतिचेत् तत्राह—यत् यदा सः प्रसिद्धो- रातहव्यः एतन्नामाराजासपर्यन् स्तुत्यापूजयन्मानुषोहोतान मनुष्यस्ययजमानस्य संबन्धीएतन्नाम- कऋत्विगिव विदथे यज्ञेवांहिनोति हविरादिनाप्रीणयति तदापीपायेत्याह ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३