मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५४, ऋक् ३

संहिता

प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ ।
य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभि॑ः ॥

पदपाठः

प्र । विष्ण॑वे । शू॒षम् । ए॒तु॒ । मन्म॑ । गि॒रि॒ऽक्षिते॑ । उ॒रु॒ऽगा॒याय॑ । वृष्णे॑ ।
यः । इ॒दम् । दी॒र्घम् । प्रऽय॑तम् । स॒धऽस्थ॑म् । एकः॑ । वि॒ऽम॒मे । त्रि॒ऽभिः । इत् । प॒देऽभिः॑ ॥

सायणभाष्यम्

विष्णवे सर्वव्यापकायशूषंअस्मत्कृत्यादिजन्यं महत् बलत्वं मन्ममननंस्तोत्रं मननीयं शूषंबलंवा विष्णुमेतु प्राप्नोतु कर्मणः संप्रदानत्वाच्चतुर्थी कीदृशायगिरिक्षिते वाचि गिरिवदुन्नतप्रदेशेवातिष्ठते उरुगायाय बहुभिर्गीयमानाय वृष्णेवर्षित्रे कामानां एवंमहानुभावं शूषंप्राप्नोतु कोऽस्यविशेषइतिउ- च्यते—योविष्णुरिदंप्रसिद्धंदृश्यमानं दीर्घंतिविस्तृतं प्रयतंनियतं सधस्थं शस्थानंलोकत्रयं एकइत् एकएवाद्वितीयः सन् त्रिभिः पदेभिः पादैर्विममे विशेशेणमितवान् ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४