मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५४, ऋक् ४

संहिता

यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति ।
य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

यस्य॑ । त्री । पू॒र्णा । मधु॑ना । प॒दानि॑ । अक्षी॑यमाणा । स्व॒धया॑ । मद॑न्ति ।
यः । ऊं॒ इति॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । उ॒त । द्याम् । एकः॑ । दा॒धार॑ । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

यस्यविष्णोः मधुना मधुरेण दिव्येनामृतेनपूर्णा पूर्णानि त्री त्रीणिपदानि पादप्रक्षेपणानि अक्षीय- माणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान् यउ यएव पृथिवीं प्रख्यातां भूमिं द्यामुत द्योतनात्मकमन्तरिक्षंच विश्वाभुवनानि सर्वाणि भूतजातानि चतुर्दशलोकांश्च यद्वा पृ- थिवीशब्देन अधोवर्तीनिअतलवितलादिसप्तभुवनन्युपात्तानि द्युशब्देन तदवान्तररूपाणि भुवआदि- सप्तभुवनानि एवंचतुर्दशलोकान् विश्वाभुवनानि सर्वाण्यपितत्रत्यानि भूतजातानि त्रिधातु त्रयाणां- धातूनां समाहारः त्रिधातु पृथिव्यप्तेजोरूपधातुत्रयविशिष्टंयथा भवतितथादाधार धृतवान् तुजादि- त्वादभ्यासस्यदीर्घत्वं उत्पादितवानित्यर्थः छन्दोगारण्यकेतत्तेजोसृजत तदपोसृजत ताआपऎक्षन्त ताअन्नमसृजन्तेतिभूतत्रयसृष्टिमुक्त्वा हंताहमिमास्तिस्रोदेवतास्तासांत्रिवृतंत्रिवृतमेकैकांकरवाणी- त्यादिना त्रिवृत्करणसृष्टिरुपपादिता यद्वा त्रिधातु कालत्रयंगुणत्रयंवा दाधारेत्यन्वयः ॥ ४ ॥ आतिथ्यायांत्दस्येत्येषाप्रधानस्ययाज्या अथातिथ्येतिखण्डेतिखण्डेसूत्रितम्—इदंविष्णुर्विचक्रमे- तदस्यप्रियमभिपाथोअश्यामिति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४