मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५४, ऋक् ५

संहिता

तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णो॑ः प॒दे प॑र॒मे मध्व॒ उत्स॑ः ॥

पदपाठः

तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः॑ । अ॒श्या॒म् । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
उ॒रु॒ऽक्र॒मस्य॑ । सः । हि । बन्धुः॑ । इ॒त्था । विष्णोः॑ । प॒दे । प॒र॒मे । मध्वः॑ । उत्सः॑ ॥

सायणभाष्यम्

अस्यमहतोविष्णोः प्रियंप्रियभूतंतत्सर्वैः सेव्यत्वेनप्रसिद्धंपाथः अन्तरिक्षनामैतत् पाथोन्तरिक्षंप- थाव्याख्यातं इतियास्केनोक्तत्वात् । अन्तरिक्षलोकाख्यंस्थानं अविनश्वरं ब्रह्मलोकमित्यर्थः अभिअ- श्यां व्याप्नुयां तदेवविशेष्यते यत्रस्थानेदेवयवः देवंद्योतनस्व भावंविष्णुं आत्मनइच्छन्तःयज्ञदानादि- भिः प्राप्तुमिच्छन्तोनरः मदन्ति तृप्तिमनुभवन्ति तदश्यामित्यन्वयः पुनरपितदेवविशेष्यते उरुक्रम- स्यअत्यधिकंसर्वंजगदाक्रममाणस्यतत्तदात्मनाअतएव विष्णोर्व्यापकस्यपरमेश्वरस्यपरमेउत्कृष्टे निर- तिशयेकेवलसुखात्मकेपदेस्थानेमध्वः मधुरस्यउत्सः निष्पन्दोवर्तते तदश्यांयत्रक्षुत्तृष्णाजरामरणपुन- रावृत्त्यादिभयंनास्ति संकल्पमात्रेणामृतकुल्यादिभोगाः प्राप्यन्तेतादृशमित्यर्थः ततोधिकंनास्तीत्याह इत्थाइत्थंउक्तप्रकारेणसहिबन्धुः सखलुसर्वेषांसुकृतिनांबन्धुभूतः हितकरोवातस्यपदंप्राप्तवतः नपुन- रावृत्तिः नसपुनरावर्ततइति श्रुतेस्तस्यबन्धुत्वं हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः ॥ ५ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४