मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५४, ऋक् ६

संहिता

ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ ।
अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्ण॑ः पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥

पदपाठः

ता । वा॒म् । वास्तू॑नि । उ॒श्म॒सि॒ । गम॑ध्यै । यत्र॑ । गावः॑ । भूरि॑ऽशृङ्गाः । अ॒यासः॑ ।
अत्र॑ । अह॑ । तत् । उ॒रु॒ऽगा॒यस्य॑ । वृष्णः॑ । प॒र॒मम् । प॒दम् । अव॑ । भा॒ति॒ । भूरि॑ ॥

सायणभाष्यम्

हेपत्नीयजमानौ वां युष्मदर्थंतातानि गंतव्यत्वेनप्रसिद्धानि वास्तूनिसुखनिवासयोग्यानि स्थाना- निगमध्यै युवयोर्गमनायउश्मसिकामयामहे तदर्थंविष्णुंप्रार्थयामइत्यर्थः तानीत्युक्तंकानीत्याह-यत्र- येषुवास्तुषुगावोरश्मयोभूरिशृंगाः अत्यंतोन्नत्युपेताः बहुभिराश्रयणीयावा अयासः अयनागन्तारः अतिविस्तृताः यद्वा अयासः गन्तारः अतादृशाः अत्यन्तप्रकाशयुक्ताइत्यर्थः अत्राहअत्रखलु वास्त्वा- धारभूतेद्युलोकेउरुगायस्य बहुभिर्महात्मभिर्गातव्यस्यस्स्तुत्यस्यवृष्णः कामानांवर्षितुः विष्णोः तत् तादृशंसर्वत्रपुराणादिषुगंतव्यत्वेनप्रसिद्धंपरमंनिरतिशयंपदं स्थानंभूरिअतिप्रभूतं अवभातिस्वमहि- म्नास्फुरति अयंमन्त्रोयास्केनगोशब्दोरश्मिवाचकइतिव्याचक्षणेनव्याख्यातः—तानिवांवास्तूनिकाम- यामहेगमनाययत्रगावोभूरिश्रृंगाबहुश्रृंगाभूरीतिबहुनोनामधेयंप्रभवतीतिसतः श्रृंगंश्रयतेर्वाश्रृणातेर्वा- शम्रातेर्वाशरणायोद्गतमितिवाशिरसोनिर्गतमितिवा यासोऽयनास्तत्रतदुरुगायस्यविष्णोर्महागतेः परमंपदंपरार्ध्यस्थमवभातिभूरिपादःपद्यतेरिति ॥ ६ ॥

प्रवः पान्तमितिषळृचंषोडशंसूक्तम् दैर्घतमसंजागतं पूर्वत्रवैष्णवंहीत्युक्तत्वाद्वैष्णवं आद्यस्तृचः इन्द्रदेवताकश्च प्रवोजागतंत्वैन्द्रश्चाद्यस्तृचइत्यनुक्रमणिका आभिप्ल्विकेषूक्थ्येषुस्तोमातिशंसने उक्तोविनियोगः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४