मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५५, ऋक् २

संहिता

त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।
या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥

पदपाठः

त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।
या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥

सायणभाष्यम्

हेइन्द्राविष्णू शिमीवतोः इष्टप्रदानादिकर्मवतोः वांयुवयोः इत्था इत्थंत्वेषं प्रदीप्तं समरणं सम्य- ग्यागदेशगमनं सुतपाः हुतशिष्टसोमपीतयजमानउरुष्यति रक्षति यागेनपूजयति यद्वा शिमीवतोः प्र- हरणादिकर्मवतोः वांयुवयोः त्वेषंदीप्तंशौर्योपेतं समरणंसम्यक् परस्परगमनोपेतंवृष्टिप्रदानायमेघवि- दारणरूपं कर्म यजमानः उरुष्यति रक्षति स्तौतीत्यर्थः कस्तयोरतिशयइत्युच्यते—या याविन्द्रावि- ष्णू युवांमर्त्ययमनुष्यायहविर्दात्रेयजमानायप्रतिधीयमानमित् प्रतिधातव्यं फलरूपं असनां असनंच- लनशीलं प्रदानशीलमन्नादिकं अस्तुः अभिमतक्षेप्तुः निरसितुर्वाशत्रूणां कृशानोरग्नेः सकाशात् उरु- ष्यथः अविच्छेनप्रवर्तयथः वह्नौहुतंहविः स्वीकृत्यतन्मुखादेवफलमपिदास्यथइत्यर्थः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५