मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५५, ऋक् ४

संहिता

तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ ।
यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥

पदपाठः

तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ ।
यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ । जी॒वसे॑ ॥

सायणभाष्यम्

अस्यमहानुभावस्य तत्तत्पौंस्यं पुंस्त्वं पराक्रमातिशयं गृणीमः स्तुमः कीदृशस्यास्य इनस्य सर्व- स्यस्वामिनः त्रातुः पालकस्य अवृकस्य वृकोहिंसकः शत्र्वादिः तद्रहितस्य मीह्ळुषः सेक्तुः नित्यतरु- णस्यस्तुत्येषुपराक्रमेषुमध्यमेकमुदाहरति योविष्णुः पार्थिवानिपृथिव्यादीनिप्रथनवन्तिवासामर्थ्यात् रजांसीतिगम्यते लोकत्रयस्यापिपृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम् तानित्रिभिरिद्विगामभिः त्रिभि- रेवविविधगमनैः उरुविस्तीर्णं यथाभवतितथा क्रमिष्टक्रांतवान् विचक्रमइत्यर्थः उरुगायाय उरुगात- व्यायजीवसे लोकत्रयलक्षणाय यद्वा उरुगायाय षष्ठ्यर्थेचतुर्थी उरुगायस्यविष्णोरीदृशंपराक्रमंगृणी- मसि किमर्थं जीवसेजीवनयरक्षणाय ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५