मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५५, ऋक् ५

संहिता

द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति ।
तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय॑न्तः पत॒त्रिणः॑ ॥

पदपाठः

द्वे इति॑ । इत् । अ॒स्य॒ । क्रम॑णे॒ इति॑ । स्वः॒ऽदृशः॑ । अ॒भि॒ऽख्याय॑ । मर्त्यः॑ । भु॒र॒ण्य॒ति॒ ।
तृ॒तीय॑म् । अ॒स्य॒ । नकिः॑ । आ । द॒ध॒र्ष॒ति॒ । वयः॑ । च॒न । प॒तय॑न्तः । प॒त॒त्रिणः॑ ॥

सायणभाष्यम्

अस्यस्वर्दृशः स्वर्गस्य सर्वस्यवाद्रष्टुर्विष्णोः द्वेइत् क्रमणे द्वेएवपदे मर्त्योमनुष्यः अभिख्यायसर्वभू- त्यादिनाप्रख्याय भुरण्यति गच्छति भजते भुरण्यतिःकण्ड्वादिर्गतिकर्मा भुरण्यतिशवतीतितत्कर्म- सुपाठात् प्रसिद्धत्वाद्भूलोकं वृष्ट्यागमनादन्तरिक्षंचेत्युभेक्रमणेजानाति अस्यविष्णोस्तृतीयंक्रमणं द्युलोकाख्यं कोऽपि मर्त्योनकिः नैवदधर्षति बृद्भ्यानाभिभवति ज्ञातुंनशक्नोतीत्यर्थः नकेवलं मनुष्यए- वअपितुवयश्चन वेत्तारोमरुतोऽपि कीदृशास्ते पतयन्तः सर्वत्रगमनसमर्थाः तथापतत्रिणः पतनशी- लागरुडादयोवायवोवा नकिरादधर्षति नैवशक्रुवन्ति धृषेर्लेट्यडागमः सत्यलोकस्यात्यंतविप्रकृष्टत्वे- न सर्वेषामविषयत्वादितिभावः ॥ ५ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५