मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५६, ऋक् १

संहिता

भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथा॑ः ।
अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्य॒ः स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥

पदपाठः

भव॑ । मि॒त्रः । न । शेव्यः॑ । घृ॒तऽआ॑सुतिः । विभू॑तऽद्युम्नः । ए॒व॒ऽयाः । ऊं॒ इति॑ । स॒ऽप्रथाः॑ ।
अध॑ । ते॒ । वि॒ष्णो॒ इति॑ । वि॒दुषा॑ । चि॒त् । अर्ध्यः॑ । स्तोमः॑ । य॒ज्ञः । च॒ । राध्यः॑ । ह॒विष्म॑ता ॥

सायणभाष्यम्

हेविष्णो मित्रोन मितेर्दुःखात् त्राता सखा आदित्योवा मित्रः प्रमीतेस्त्रायतेइतिनिरुक्तम् । शेव्यः साधुः सुखकर्ताघृतासुतिः घृतमुदकमासूयतेयेनसतादृशः यद्वा घृतमाज्यमाभिमुख्येन नीयतेयस्मैस- तादृशः विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नोवा एवयाः रक्षणस्यमिश्रयिताप्रापयिता सप्रथाः सर्वतः पृथुः प्रतिविशेषणंनोभवेतिसंबन्धः द्भ्यचोतस्तिङइतिदीर्घः उइतिपादपूरणः हेविष्णो त्वंयस्मादीदृ- शोभवसि अधास्मात् ते तव स्तोमः स्तोत्रविशेषः विदुषात्वन्माहात्म्यवेदित्रा यजमानेन अर्ध्यः पुनः पुनःप्रवर्धनार्हः चित् एव एकवारकरणेनसंपूर्यतइत्यर्थः तथातेयज्ञश्च हविष्मता तेनयजमानेनराध्यः समाराधनीयः यद्वा विदुषाहोत्रासोमोराध्यः हविष्मतायज्ञश्चराध्यः ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६