मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५६, ऋक् २

संहिता

यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥

पदपाठः

यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति ।
यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊं॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥

सायणभाष्यम्

यः योमर्त्यः पूर्व्यायपूर्वकालीनायनित्यायेत्यर्थः वेधसेविविधजगत्कर्त्रे नवीयसेनित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः स्तुत्यायवा सुमज्जानये स्वयमेवोत्पन्नाय जनेरौणादिकइण् सुमत्स्वयमित्य- र्थइतियास्कः । यद्वा सुतरांमादयतीतिसुमत् तादृशीजायायस्यसतथोक्तः तस्मै सर्वजगन्मादनशील- श्रीपतयइत्यर्थः बहुव्रीहौजायायानिङितिनिङादेशःसमासान्तः वलिलोपः उक्तगुणकायविष्णवे व्या- पकायददाशति हविरादिकंददाति किंच अस्य विष्णोर्महतोमहानुभावस्य महि महत् पूज्यंजातंजन्म उत्पत्तिं हिरण्यगर्भादिरूपंजन्म ब्रवत् ब्रूयात् ब्रवीतेर्लेट्यडागमः संकीर्तयेत् सेदु उशब्दोपिशब्दार्थः सोऽपिदाता स्तोताच श्रवोभिरन्नैः कीर्तिभिर्वायुक्तः सन् युज्यंचित् सर्वैर्गन्तव्यमेव तत्पदं अभिआ- भिमुख्येनअसत् गच्छति प्राप्नोति ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६